________________
योगशास्त्रम्
योगमाहात्म्यम्
11५८॥
प्रोद्भिननिर्वेदात्प्रत्यङ्गोज्झितभूषणम् । स्वमपश्यद्गतश्रीकं शीर्णपणमिव दुमम् ॥१९॥ अचिन्तयच्च धिगहो वपुपो भूपगादिभिः । श्रीराहर्येव कुडचस्य पुस्तायैरिख कर्मभिः ॥२०॥ अन्तःक्लिनस्य विष्टायेमलैः स्रोतोभवेहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ॥२१॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दुषयत्येव पाथोदपयांस्यूपरभूरिव ॥२२॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तत्त्ववेदिभिः ॥२३॥ इति चिन्तयतस्तस्य शुल्कथ्यानमुपेयुषः। उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ॥२४॥ रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात् । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥२५॥ तद्राज्थेऽकृत तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महीभुजाम् ॥५२६॥१०॥ स्यान्मतं युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिवलक्षपिताशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयोऽत एवाक्षपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान्, स कथमनन्तकालप्रचितशुभाशुभकर्मनिमूलनमनुभवेत् । तत्राह__ पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः पाप मरुदेवा परं पदम् ॥११॥ मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती किं पुनर्मानुषत्वं तथापि योगबलसमृद्धेन शुल्कध्यानाग्निना चिरसश्चितानि कर्मेन्धनानि भस्मसात्कृतवती ।
॥५८॥