________________
योग
शास्त्रम्
॥५९॥
यदाह -- “ जह? एगा मरुदेवा अच्चतं थावरा सिद्धा" मरुदेवाचरितं चोक्तप्रायम् ॥ ११॥ ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगबलेन युक्तः कर्म्मक्षयः ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह
ब्रह्मस्त्रीभ्रूणगोघातपातकान्नरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥१२॥
ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याश्च गोर्धेनोस्तेषां घातः स एव पातकं तस्मात् । यद्यपि समदर्शिनां ब्राह्मणाब्रह्मणयोः स्त्रीपुरुपयोभ्रूणाभ्रूणयोर्गवागवोर्घातेऽविशेषेण पापबन्धः । यदाहसव्वो न हिसियन्वो जह महिपालो तहा उदयपालो । न य अभयदाणवरणा जणोवमाणेण होयव्वं ॥ १॥
तथापि लोकप्रसिद्ध नुरोधेन ब्रह्मेत्याद्युक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयस्तां मन्यन्त एवेति । नरकातिथेर्दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोग सम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मूल्य परमसम्पदमासादितवन्तो द्रष्टव्याः । यदाह -
(१) यथा एका मरुदेवाऽत्यन्तं स्थावरा सिद्धा
(२) सर्वो न हिंसितव्यो यथा महीपालस्तथा उदयपालः । न च अभयदानव्रतिना जनोपमानेन भवितव्यम् ॥ १ ॥
EXCOM OR O
योग
माहात्म्यम्
114811