________________
योगशास्त्रम्
योगमाहात्म्यम्
॥६॥
स्कूरा वि सहावेणं विसयविसवसाणुगा वि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥ इति । तथाहि___ कस्मिंश्चिनगरे कश्चिदासीदद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्तत स पापधीः ॥११॥ आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येनश्चौरपल्लीं जगाम च ॥२॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ। चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥३॥ चौरसेनापतौ तस्मिन्नवसानमुपेयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः ॥४॥ निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति नाम्ना निजगदे जनैः ॥५॥ अन्येद्युर्विश्वकुट्टाकलुण्टाकभटपेटकैः स कुशस्थलनामानं ग्राम लुण्टयितुं ययौ ॥६॥ ब्राह्मणो देवशर्मेति तत्र दारियविद्वतः। अवकेशीफलमिव क्षीरानं याचितोऽर्भकैः ॥७॥ पर्यटच सकले ग्रामे कापि कापि स तन्दुलान् । कापि कापि पयोऽभ्यर्थ्य परमानमपीपचत् ॥८॥ नद्यां स्नातुं ययावेष यावत्तावत् तदोकसि । ते क्रूरतस्कराः पेतुर्देवं दुर्बलघातकम् ॥९॥ तेषामेकतमो दस्युरपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥१०॥ आच्छिद्यमाने तस्मिस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्भरूपाणि गत्वा पितरमूचिरे ॥११॥ व्यात्ताननानामस्माकं दस्युवृन्देन पायसम् । जडू प्रसारितदृशामनिलेनेव कजलम् ॥१२॥ तदाकण्य वचो विप्रः क्षिप्रं दिनः क्रुदग्निना । यमदूत इवादाय परिघं पर्यधावत ॥१३॥ सरोषराक्षसावेशात्समुत्पादितदोबलः । हन्तुं प्रववृते दस्यून् परिषेण पशूनिव ॥१४॥ तेनावकरवत्साक्षामिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन्
(२) कूरा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसः त्रैलोक्यसुखावहा भवन्ति ।।१।।
LLEOLL