________________
योगशास्त्रम्
प्रहारिकथा
दधावे तस्करेश्वरः ॥१५॥ तस्यापि धावतो दैवाद्गतिविघ्नविधायिनी । निरोधुं दुर्गतिमिव मार्गे गौरन्तरेऽभवत ॥१६॥ करालकरवालैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्तां चण्डाल इव निघृणः ॥१७॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयत्खङ्गायष्टिना ॥१८। आः पाप निष्कृप कृतं किमेतदिति वादिनी । बाला मासवती तं चाभ्यागात् द्विजकुटुम्बिनी ॥१९॥ तस्या वृक इव च्छाग्या गुविण्याः सोऽतिदारुणः। कुष्माण्डदारमुदरं दारयित्वा द्विधाकरोत् ॥२०॥ ततो जरायुमध्यस्थं तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं निरैक्षिष्ट लताया इव पल्लवम् ॥२१॥ तथा सम्पश्यमानस्य तस्य विहलचेतसः। कृपा गतकृपस्यापि जज्ञे वल्कमिवाश्मनः ॥२२॥ ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तत्कालं द्विजबालकाः ॥२३॥ नग्नान् भुग्नानतिक्षामान् १श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ॥२४॥ हहा घ्नता निघणेन दरिद्रौ दम्पती मया । अमी बाला हतास्तोयशोषे जीवन्ति किं झपाः ॥२५॥ क्रूरेण कर्मणानेन नेष्यमाणस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥२६॥ इति सश्चिन्तयन्नेव वैराग्यावेगभागसं । एनोगदागदङ्कारान्साधूनुद्यान ऐक्षत ॥२७॥ नत्वोवाचेत्यहं पाप्मा भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पङ्किली कुरुते परम् ॥२८॥ येषामेकतरमपि नरकायैव तान्यहम् । ब्रह्मस्त्रीभ्रणगोपातपातकान्यकृपो व्यधात(म्) ॥२९॥ मामीदृशमपि त्रातुं साधवो यूयमर्हथ । मेघानां वर्षतां स्थानमस्थानं वा न किश्चन ॥३०॥ अथ ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः पापभीरुस्तमाददे ॥३१॥ १ दिग्धानतिमलेन च