________________
प्रहारिकथा
न भोक्ष्ये तत्र यत्राहि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा शान्ति सोऽग्रहीदित्यभिग्रहौ ॥३२॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥३३॥
स एवायं कृतच्छया पापः पापीयसामहो । इत्यतयंत लोकेन स महात्मा दिवानिशम्॥३४॥ गोभ्रणद्विजघात्येष इति लोकेन जल्पता। विशन गृहेषु भिक्षार्थ श्वेव लौष्टैरकुटयत ॥३५॥ स्मार्यमाणः स तत्पापं प्रति वासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म । किवा सत्त्वस्य दुष्करम् ॥३६॥ कचित्प्रातः कचिन्मध्यंदिने सायमपि कचित् । स्मार्यमाणः स तत्पापं कुत्राप्यति न भुक्तवान् ॥३७॥ लोष्टुभिर्यष्टिभिः पांशुवृष्टिभिमुष्टिभिर्जनाः । यजघ्नुः सोधिसेहे तत्सम्यक् चैवमभावयत् ॥३८॥ आत्मन् यादृकृतं कर्म तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥३९॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा तन्ममेयं कर्मनिर्जरा ॥४०॥ मय्याक्रोशाः प्रमोदाय यथेषां मे तथैव हि । यत्प्रीत्या सहमानस्य कर्मक्षयविधायिनः ॥४१॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः॥४२॥ अमी मदीयं दुष्कर्मग्रन्थि परुषभाषितैः । क्षारैखि चिकित्सन्तो नितान्तं सुहृदो मम ॥४३॥ कुर्वन्तु ताडनं हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो मलिनत्वमपोहति ॥४४॥ कर्षन् दुर्गतिगुप्तेर्मा स्वं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै प्रहारानपि कुर्वते ॥४५॥ मत्पापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्योऽपरः परमबान्धवः ॥४६॥ वधबन्धादि हर्षाय यन्मे संसारमोचनम् । तदेवानन्-संसारहेतुरेषां दुनोति माम् ॥४७॥ केचित्परेषां तोषाय त्यजन्त्यर्थान्वपूंष्यपि । एषां प्रीतिदमाक्रोशहननादि कियन् मम ॥४८॥
६२॥