________________
योगशास्त्रम्
चिलाती पुत्रकथा
॥६३।।
तर्जितोऽहं हतो नाऽस्मि हतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥४९॥ आक्रोशवागविक्षेपो बन्धनं हननं मृतिः । सह्य श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ॥५०॥ एवं भावयता तेन गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्मराशिः कक्ष इवाग्निना ॥५१॥ अम्लानं केवलज्ञानमथ लेभे
सुदुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥५२॥ योगप्रभावेण दृढप्रहारी यथैष नरकातिथित्वम् । पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥५॥१२॥
पुनरुदाहरणान्तरेण योगश्रद्धामेव वर्द्धयति । तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन कः ॥१३॥
तत्काल तत्क्षणं कृतं यदुष्कर्म स्त्रीवधलक्षणं तेन कर्मठः कर्मशूरस्तस्य दुरात्मन इति पापकरणकालापेक्ष चिलातीपुत्राभिधानस्य गोप्ने दुर्गतिपातरक्षकाय योगाय को न स्पृहयेत् सर्व एव स्पृहयेदित्यर्थः । तथाहि
क्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवदद्विजः । निनिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥१॥ असहिष्णुश्च तां निन्दां जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत् ॥२॥ ईदृशी च प्रतिज्ञा भूद्वादाधिष्ठितयोस्तयोः । येन यो जेष्यते तस्य शिष्यत्वं स करिष्यति ॥३॥ आनीतो निग्रहस्थानं बुद्धिकौशलशालिना । विवदन्वादिना तेन यज्ञदेवः पराजितः ॥४॥ चेल्लको जितकाशी तु यज्ञदेवद्विजन्मना । तदा पूर्व(१) स दुर्लभम्