________________ योगशास्त्रम् ज्योतीरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्य प्राज्य प्रचुर तव समुज्जम्भते आविर्भवति / अयमर्थ:-निखिलग द्वादेशः प्रकाशा // 786 // साम्राज्यसपदि सुलभ उन्मनीनाव इति // 54 // इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूद्योपसंहरति योगस्योपनिषद्विवेकिपरिषच्चेतश्चमत्कारिणी / श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा // 55 // या योगस्योपनिषद्रहस्यमज्ञायि ज्ञाता / कुत्तः ? शास्त्रात् द्वादशाङ्गादागमात्, मुगुरोः सदागमव्याख्यातुः मुखात् साक्षादुपदेशात्, अनुभवाच्च स्वसंवेदनरूपात् / किश्चिदिति स्वप्रज्ञानुसारेण / क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे क्वचन / उपनिषदमेव विशिनष्टि-विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यच्चेतः, तच्चमत्कारोतीत्येवंशीला / सा योगस्योपनिषत्, श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं Baa // 786 //