________________ योग शास्त्रम् द्वादशः प्रकाशा // 787 // शुश्रूषमाणोऽत्यर्थमभ्यर्थितान्, ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्रीहेमचन्द्रः / इति शुभम् / श्री चौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं, तत्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम् / स्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्द्या-द्यावज्जैनप्रवचनवती भूर्भुवःस्वस्त्रयीयम् // 1 // संप्रापि योगशास्त्रात्तद्विवृतेश्चापि यन्मया सुकृतम् / तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् // 2 // इति श्रीपरमाईतश्रीकुमारपालभूपालशुपिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् // 12 // / इति योगशास्त्रे द्वितीयो विभागः। / इति संपूर्ण योगशास्त्रं सविवरणम् /