________________ योगशास्त्रम् // 785| द्वादशः प्रकाशः जनिते इत्यर्थः / इत्यप्यवगतवता पुंसां सदगुरूपासनायां कथमिच्छा न भवति / किविशिष्टायां ? उन्मनीभावहेतो उन्मनस्त्वकारणभूतायाम् // 43 // इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तनाह-- तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन् , तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि / हतात्मानमपि प्रसादय मनाग येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते // 54 // तान तान् उच्चनीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान्, किमपरं ? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन् अनुग्रहपरान् कुर्वन्, कैः? तैस्तैर्भावरभिप्रायधनयशोविद्याराज्यस्वर्गाधर्थप्रार्थनारूप रोगदारिद्रयाद्रोपद्रवाद्यनर्यपरिहारेच्छारूपैश्च हेतुभूतैः, किं कुतो हेतोः? हे आत्मन् आयस्यसि आयासमनुभवसि ? तत्तदुपायमृदेत्यात्मनो विशेषणं, ते च ते उपायनसेवादानपूजादय उपायास्तेषु मृढ केनोपायेनायमयं च परः प्रसादनीय इत्यत्र भ्रान्तः (न्त) भगवत्रिति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह / तेति प्रत्यक्षीकृतस्यात्मनः संबोधन / आत्मानमपि स्वमपि प्रसादय रजस्तमोमलापनयनेन प्रसादयन्तं कुरू / मनागिति क्षणमात्रं, आस्तां चिरकालं। येनात्मप्रसादनेन, आसतामन्याः संपदः अर्थप्राप्त्यनर्थपरिहाररूपा यावत् परमेऽपि तेजसि परम Page / / 783)