________________ योगशास्त्रम् द्वादशः प्रकाशा // 784 // स्पष्टा / / 49 // सोपालम्भमुपदेशसर्वस्वमाह-- | कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितं तु / न ततः प्रयते कथं निष्कर्मत्वे सुलभमोक्षे॥५०॥ स्पष्टा // 50 // यदिवा-- मोक्षोऽस्तु मास्तु यदिवा परमान्दस्तु वेद्यते स खलु / यस्मिन्निखिलसुखानि प्रतिभासन्ते न किश्चादव // 51 // स्पष्टा // 51 // तथाहीत्यादिना एतदेव प्रपश्चयतिमधु न मधुरं नैताः शीतास्त्विषस्तुहिनद्युतेरमृतममृतं नामैवास्याः फले तु मुधा सुधा / तदलममुना संरम्भेण प्रसीद सखे मनः, फलमविकलं त्वय्येवैतत्प्रसादमुपेयुषि // 52 // स्पष्टः // 52 // स्वसंविदितामनस्कोपदेशदायिना गुरून् व्यतिरेकभङ्गया स्तौति-- सत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरा-दप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् / पुंसामित्यप्यवगतवतामुन्मनीभावहेता-विच्छा बाढं न भवति कथं सद्गुरूपासनायाम् // 53 // एतस्मिन्मनसि सति दूरादपि अरतिरतिकारणं वस्तु गृह्यते, अरतिकारणं व्याघ्रादि रतिकारणं वनितादि / आसन्नदेशवयंप्यसति तु मनसि न अरतिरतिदं वस्तु गृह्यते / सुख दुखे मनःसंबन्धनिबन्धने, न तु विषयसंपर्क // 784 //