________________
योगशास्त्रम्
योगमहात्म्यम्
tોરૂર
वीचयः ॥५९॥ गोरोचनागर्भगौरी स्निग्धस्वच्छा त्वगाणभौ । स्ववद्रवविलिप्तेव तनौ त्रिजगदीशितुः ॥६॥ मृदृनि भ्रमरश्यामान्यद्वितीयोद्गमानि च विसनन्तुतनीयांसि लोमानि स्वामिनस्तनौ ॥६१॥ उत्फुल्लकुमुदामोदः श्वासो विस्नेतरत्पलम् । गोक्षीरधाराधवलं रुधिरं च जगत्पतेः॥६२॥ इत्यसाधारण नालक्षणैर्लक्षितः प्रभुः। रत्न रत्नाकर इव सेव्यः कस्येह नाभवत् ॥६३॥ अन्येयुः क्रीडया क्रीडद्बालभावानुरुपया । मिथो मिथुनकं किश्चित्तले तालतरोरगात् ॥६४॥ तदैव दैवदुर्योगात्तन्मध्यानरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत्तालफलं महत् ॥६५॥ प्रहतः काकतालीयन्यायेनाश्वेव मर्माणि । विपन्नो दारकस्तत्र प्रथमेनापमृत्युना ॥६६॥ कालधर्म गते तस्मिस्तद्वितीया नितम्बिनी। यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाभवत्॥६७॥ अकाण्डमुद्गराघातेनेव तेनापमृत्युना । बभूवुमूछितानीव मिथुनान्यपराण्यपि ॥६८॥ तानि तामग्रतः कृत्वा नारी पुरुषवर्जिताम् । किंकत्तव्यविमूढानि श्रीनाभेरुपनिन्यिरे ॥६९॥ एषा वृषभनाथस्य धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ॥७०॥ अन्यदा तु रविभोरुद्यत्याग्भोगफलकर्मणः । आगादिन्द्रो विवाहार्थ वृन्दारकगणान्वितः ॥७॥ ततः स्वर्णमयस्तम्भभ्राजिष्णुमणिपुत्रिकम् । अनेकनिर्गमद्वारमकार्षुमण्डपं सुराः ॥७२॥ श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया। गङ्गयेवाश्रितः सोऽभूभूरिशोभादिदृक्षया ॥७३॥ तोरणानि चतुर्दिक्षु सन्तानतरुपल्लवैः। तत्राभूवन् धनूंषीव सज्जितानि मनोभुवा ॥७४॥ चतस्रो रत्नकलशश्रेण योऽभ्रंलिहाग्रगाः पर्यस्थाप्यन्त देवीभिनिधानानि रतेरिव ॥७५॥ ववृषुमण्डपद्वारे चेलोरक्षेपं पयोमुचः । चक्रे मध्ये सुरीभिर्भूः पङ्किला यक्षकदमैः ॥७६|| वाद्यमानेषु तूर्येषु गीयमाने च मङ्गले । अवादयन्नगायश्च प्रतिशब्दर्दिगङ्गनाः ।। ७७ ॥
१. विभोरभ्युद्यद्भोगफलकर्मणः २. अभ्रंलिहायकाः
॥३२॥