________________
योगगर्भ
योगशास्त्रम्
स्तुतिः
॥३१॥
पाणी पादाविवाङ्कितौ ॥४१॥ अङ्गुष्ठाङ्गलयः शोणाः सरलाः शोणपाणिजाः। प्ररोहा इव कल्पद्रोः प्रान्तमाणिक्यपुष्पिताः॥४२॥ यवाः स्पष्टमशोभन्त स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्टयहेतवः॥४३।।अगुलीमूर्द्धसु विभोः सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावत्ता दक्षिणावर्त्तशङ्खताम् ॥४४॥ कृच्छादुद्धरणीयानि जगन्ति त्रीण्यपीत्यभान् । संख्यालेखाहव तिस्रो लेखा मूले कराब्जयोः ॥४५॥ वर्तुलोऽनतिदीर्घश्च लेखात्रयपवित्रितः। गम्भीरध्वनिराधत्ते कण्ठः कम्बुविडम्बनाम् ॥४६॥ विमलं वत्तलं कान्तितरङ्गि वदनं विभोः। पीयूषदीधितिरिवापरो लाञ्छनवर्जितः ॥४७॥ ममृणौ मांसलौ स्निग्धौ कपोलफलको प्रभोः । दर्पणाविव सौवर्णी वाग्लक्ष्म्योः सहवासयोः ॥४८॥ अतरावर्त्तसुभगौ कौँ स्कधान्तलम्बितौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्तिके इव ॥४९॥ ओष्ठौं बिम्बोपमा दन्ता द्वात्रिंशत्कुन्दसोदराः। क्रमस्फारा क्रमोत्तुङ्गवंशा नाशा महेशितुः ॥५०॥ अहस्वदीर्घ चिबुकं मांसलं वत्तुल मृदु । मेचकं बहुलं स्निग्धं कोमलं श्मश्रु तायिनः ॥५१॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला । प्रभोजिह्वानतिस्थूला द्वादशाङ्गागमार्थवः॥५२॥ अन्तरा कृष्णधवले प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥५३॥ ते च कर्णान्तविश्रान्ते कज्जलश्यामपक्ष्मणी । विकस्वरे तामरसे निलीनालिकुले इव ॥५४॥ बिभराश्चक्रतुभत्तः श्यामले कुटिले भ्रुवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥५५॥ विशालं मांसलं वृत्तं मसणं कठिनं समम् । भालस्थलं जगद्भुर्तुरष्टमीसोमसोदरम् ॥५६॥ भुवनस्वामिनो मौलिरानुपूर्ध्या समुन्नतः। दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ॥५७॥ मौलिच्छत्रे महेशस्य जगदीशत्वशसिनि । वृत्तमुत्तमुष्णीष शिश्रिये कलशश्रियम् ॥५८॥ केशाश्चकाशिरे मूनि प्रभोर्भमरमेचकाः । कुश्चिताः कोमलाः स्निग्धाः कालिन्द्या इव
॥३१॥