________________
योगशास्त्रम्
||३०||
क्षितौ धर्मप्रतिष्ठा हेतुतां ययुः ||२३|| वाः पर्वस्वङ्गुलीनामघो वापीभिरावभुः । उप्ता इव जगल्लक्ष्मी विवाहाय जगत्प्रभोः ||२४|| कन्दः पादाम्बुजस्येव पाणिर्वृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां फणामणिनिभा नखाः || २५ || हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फौ वितेनाते नितान्तं स्वामिपादयोः ||२६|| प्रभोः पादावुपर्यानुपूर्व्या कूर्म्मवदुन्नतौ । अप्रकाशसिरौ स्निग्धच्छवी लोमविवजितौ ||२७|| अन्तर्मग्नास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ जङ्गे गौर्यौ जगत्पतेः ||२८|| जानुनी स्वामिनोऽघातां वर्चुले मांसपूरिते । तूलपूर्ण पिधानान्तः क्षिप्तदर्पणरूपताम् ||२९|| ऊरू च मृदुलौ स्निग्धावानुपूर्व्येण पीवरौ । बिभराञ्चक्रतुः प्रौढकदलीस्तम्भमिभ्रमम् ||३०|| स्वामिनः कुञ्जरस्येव मुष्कौ गूढौ समस्थिती । अतिगृढं च पुचिह्नं कुलीनस्येव वाजिनः ॥३१॥ तच्चासिरमनिम्नोच्चमहूस्वादीर्घमश्लथम् । सरलं मृदु निर्लोम वर्त्तलं सुरभीन्द्रियम् ||३२|| शीतप्रदक्षिणावर्त्तशब्दयुक्तैकधारकम् । अवीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ||३३|| आयता मांसला स्थूला विशाला कठिना कटिः । मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ||३४|| नाभिर्वभार गम्भीरा सरिदावर्त्तविभ्रमम् । Fat fruit Hindi कोमलौ सरलौ समौ ॥ ३५ ॥ अधाद्वक्षः स्थलं स्वर्णशिलापृथुलमुन्नतम्। श्रीवत्सरत्नपीठाङ्कं श्रीलीलावेदिकाश्रियम् ||३६|| दृढपीनोन्नतौ स्कन्धौ ककुद्मत्ककुदोपमौ । अल्परोमोन्नते कक्षे गन्धस्वेदमलोज्झिते ||३७|| पीनौ पाणिफणिच्छत्रौ भुजावाजानुलम्बितौ । चञ्चलाया नियमने नागपाशाविव श्रियः ||३८|| नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अस्वेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ३९ ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशैः । ध्वजाब्जचामरच्छत्रशङ्खकुम्भाब्धिमन्दरैः ||४०|| मकरर्षभसिहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः
योगगर्भ -
स्तुतिः
||३०||