________________
योगशास्त्रम्
योगगर्म स्तुतिः
॥२९॥
॥५॥ तृतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया । चतुरशीतौ साष्टिमासे वर्षत्रयेऽपि च ॥६॥ तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वमसूचितः प्रथमो जिनः ॥७॥ नाभेश्च मरुदेव्याश्च तदा सम्यगजानतोः । स्वप्नार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥८॥ ततः सुखेन जातस्य शुभेऽह्नि परमेशितुः । षट्पञ्चाशदिकुमार्यः सूतिकर्म प्रचक्रिरे ॥९॥ मेरुमूर्ध्नि विभु नीत्वा कृत्वोत्सङ्गे दिवस्पतिः । तीर्थोदकरभ्यषिञ्चत्वं च हर्षाश्रुवारिभिः ॥१०॥ वासवेन ततो मातुरपितस्य जगद्गुरोः । धात्रीकर्माणि सर्वाणि विदधुविबुधस्त्रियः ॥११॥ निरीक्ष्य ऋषभाकारं लक्ष्मोरौ दक्षिणे प्रभोः । चक्रतुः पितरौ नाम ऋषभेति प्रमोदतः ॥१२॥ अमन्दं दददानन्दं सुधारश्मिवि प्रभुः । त्रिदशाहारयोगेन पोषितो ववृधे क्रमात् ॥१३॥ अन्येधुर्घसदामीश उपासितुमुपागतः । अचिन्तयद्भगवतो वंशः क इह कल्प्यताम् ॥१४॥ अवगत्य तदाकूतमवधिज्ञानतो विभुः। तत्करेक्षुलतां लातुं करीव करमक्षिपत् ॥१५॥ तां समर्प्य जगद्भर्तुः प्रणम्य च बिडौजसा । इक्ष्वाकुरिति वंशस्य तदा नाम प्रतिष्ठितम् ॥१६॥ बाल्यं कल्यमिवोल्लङ्घ्य मध्यन्दिनमिवार्यमा। विभुर्विभक्तावयवं द्वितीयं शिश्रिये वयः ॥१७॥ यौवनेऽपि मृदू रक्तौ कमलोदरसोदरौ उष्णावकम्प्रावस्वेदौ पादौ समतलौ प्रभोः॥१८॥ नतार्तिच्छेदनायेव प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरणोरिव दामाङ्कुशध्वजाः॥१९॥ स्वामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शकुम्भौ तले पाणौँ स्वस्तिकश्च विरेजिरे ॥२०॥ मांसलो वत्तलस्तुङ्गो भुजङ्गमफ णोपमः । अङ्गुष्ठः स्वामिनो वत्स इव श्रीवत्सलाञ्छितः ॥२१॥ प्रभोनिर्वातनिष्कम्पाः स्निग्धदीपशिखोपमाः । नीरन्ध्रा ऋजवोऽगुल्यो दलानीव पदाब्जयोः ॥२२॥ नन्दावर्ता जगद्भर्तुः पादङ्गुलितलेष्वभान् । यबिम्बानि
॥२९॥