________________
योग
योगशास्त्रम्
माहात्म्यम्
॥३३॥
सुमङ्गलामुनन्दाभ्यां कुमारीभ्यामकारयत् । वासवः परमेशस्य पाणिग्रहमहोत्सवम् ॥७८॥ ततः सुमङ्गलादेवी देवैः प्रकृतमङ्गला । अपत्ये भरतब्राहम्यौ युग्मरूपे अजीजानत् ॥७६॥ त्रैलोक्यजनितानन्दा सुनन्दा सुषुबे युगम् । सुबाहुँ बाहुबलिनं सुन्दरीं चातिसुन्दरीम्।।८०॥ पुनरेकोनपञ्चाशत्पुंयुगानि सुमङ्गला । अमूत बलिनो मूर्त्तान् द्वैरूप्येणेव मारुतान् ॥८१।। अन्येारन्याय इति पूत्कारोध्धृतबाहुभिः। नाभिर्व्यज्ञपि सम्भूय सर्वमिथुनकैरिदम ॥८२॥ तिखो हकारमकारधिक्काराख्याः सुनितयः । न गण्यन्तेऽधुना पुम्भिः कुव्वद्भिरसमञ्जसात् ॥८३॥ ततः कुलकरोऽप्यूचे त्रातास्मादसमञ्जसात् । एष वो वृषभः स्वामी तद्वत्तध्वं तदाज्ञया ॥८४॥ तदा कुलकराज्ञातः कर्त राज्यस्थिति स्फुटाम् । प्रभुर्ज्ञानत्रयमयो मिथुनान्येवमन्वशात् ॥८५॥ राजा भवति मर्यादाव्यतिक्रमनिरोधकः। तस्योच्चासनदाने नाभिषेकः क्रियते जलैः ॥८६॥ आकर्ण्य वचनं भस्तेि सर्षे युग्मम्मिणः । तच्छिक्षया ययुः पत्रपुटैजलजिघृक्षया ।।८७॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्यसमयः शक आययौ ॥८८॥ रत्नसिहासनेऽध्यास्य वासवःपरमेश्वरम् । साम्राज्येऽभिसिषेचालश्चक्रे च मुकुटादिभिः ॥८९॥ इतचाम्भोजिनीपत्रपुटैरञ्जलिधारितैः । निज मन इव स्वच्छमानिन्ये मिथुनर्जलम् ।।९०॥ उदयाद्रिमिवार्केण मुकुटेनोपशोभितम् । अत्यन्तविमलैवस्वैव्योमेव शरदम्बुदैः ॥११॥ हंसैरिव शरत्काल सञ्चरचारुचारुचामरैः । कृताभिषेक नाभेयं ददृशुस्तानि विस्मयात् ॥९२॥ (युग्मं) नैतद्युक्तं प्रभोमुनि क्षेप्तुमेवं विमशिभिः । विनीतैमिथुनैर्वारि निदधे पादपद्मयोः ॥९३॥ योजनान्यथ विस्तीर्णा नव द्वादश चायताम् । विनीताख्यां पुरी कर्त श्रीदमुक्त्वा हरिया ॥ ९४ ॥ सोऽपि रत्नायीं भूमेर्माणिक्यमुकुटोपमाम् । व्यधात् द्विपामयो
॥३३॥