________________ योगशानम् द्वादशः प्रकाश 1778 स्पष्टा // 21 // यथौदासीनस्य परे तत्त्वे लयो यथा चोन्मनीभावो भवति तथा कलापकेनाह एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः / आ चरणाप्रशिखाग्राच्छिथिलीभूताखिलावयवः॥२२॥ रूपं कान्तं पश्यन्नपि श्रृण्वन्नपि गिरं कलमनोज्ञाम् / जिघन्नपि च सुगन्धीन्यपि भुञ्जानो रसान् स्वादून।॥२३॥ भावान् स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् / परकलितौदासीन्यः प्रणष्टविषयभ्रमो नित्यम् // 24 // बहिरन्तश्च समन्ताच्चिन्ताचेष्टापरिच्युतो योगी / तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् // 25 // कलापक' स्पष्टम् // 22-25 // अथ कथमिन्द्रियप्रसरो न प्रतिषिध्यते ? इत्याह-- गृह्णन्ति ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्थ्योत् / न खलु प्रवर्तयेद्वा प्रकाशते तवमचिरेण // 26 // // 778||