________________ योगशास्त्रम् द्वादशः प्रकाशा 1777 // प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने / अपरस्मिन् गुरूपदर्शिते तत्वज्ञाने // 15 // गुरुमेव स्तौति-- यद्वत्सहसकिरणः प्रकाशको निचिततिमिरमग्नस्य / यद्वद्गुरुरत्र भवेदज्ञानध्वान्तपतितस्य॥१६॥ATI निचिततिमिरमग्नस्य अर्थस्येति शेषः / अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः // 16 // ततश्च-- प्राणायामप्रभृतिक्लेशपरत्यागतस्ततो योगी / उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् // 17 // स्पष्टा // 17 / / ततश्चवचनमनःकायोनां क्षोंमें यत्नेन वर्जयेच्छान्तः। रसमाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् // 18 // स्पष्टा // 18 // औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव / यत्संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम्॥१९॥ स्पष्टा // 19 // व्यतिरेकमाह-- यावत्प्रयत्नलेशो यावत्सङ्कल्पकल्पका काऽपि / तावन्न लयस्यापि प्राप्तिस्तत्त्वस्य का नु कथा // 20 // स्पष्टा // 20 // औदासीन्यस्य फलमाह यदिदं तदिति न वक्तुं साक्षाद्गुरुणाऽपि हंत शक्येत /