________________ योगशास्त्रम् // 779 // द्वादशः प्रकाशा स्पष्टः // उक्त चास्माभिर्वीतरागस्तोत्रेसंयतानि न चाक्षाणि नैवोच्छङ्खलितानि च / इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृतः // 1 // 26 // मनोजयमप्यकृच्छ्प्राप्यमार्याद्वयेनाह-- चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्य / अधिकीभवति हि वारितमवारितं शान्तिमुपयाति॥२७॥ मत्तो हस्ती यत्नान्निवार्यमाणोऽधिकीभवति यद्वत् / अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत्॥२८॥ स्पष्टे // 27-28 // यथा मनः स्थिरं भवति तथाऽऽर्याद्वयेनाह-- यर्हि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः। तर्हि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव // 29 // अनया युक्त्या भ्यासं विदधानस्यातिलोलमपि चेतः / अगुल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति // 30 // स्पष्टे // 29-30 // इन्द्रियजयविधिमार्याद्वयेनाह--- // 779 //