________________ योगशाखम् पकाशः। प्रकाशा 771 // नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् / योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरास्ति // 59 // उपग्रहो गत्युपष्टम्भकारी धर्मास्तिकायलक्षणा मत्स्यानामिव जलं, लोकान्तात् परतस्तस्याभावानोर्ध्व याति / गौरवमधोगमनहेतुस्तस्याभावानाधो याति / योगः काययोगादिः प्रयोगः परप्रेरणं तयोगिमादभावान्न तिर्यग यातीति // 59 // ___ इह च कर्ममुक्तस्योर्ध्वदेशनियमेन गतिर्नोपपद्यत इतिवादिनं प्रत्याह-- लोघवयोगाध्धूमवेदलाबुफलवच्च सङ्गविरहेण / बन्धनविरहादेरण्डवच्च सिद्धस्य गतिरूव॑म् // 60 // लाघवं गौरवप्रतिपक्षभृतः परिणामस्तद्योगात् धूमस्येव सिद्धस्याचं गतिर्भवति / तथा सङ्गविरहेण तथाविधएरिणामत्वादष्टमृत्तिकालेपविलिप्तजलाधोनिमग्नक्रमापनीमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालावुफलस्येव सिद्धस्याध्वं गतिः तथा बन्धनस्य कर्मलक्षणस्य विरहादभावात्तथाविधपरिणतेः कोशबन्धनविमुक्तैरण्डफलवत सिद्धस्यावं गतिः // 60 // ततश्च-- 771 /