________________ योग शास्त्रम् पकादश प्रकाशा 11770 // लघुवर्णपञ्चकोगिरणतुल्यकालामवाप्य शैलेशीम्। क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि // 57 // लघुवर्णपश्चकं अइउऋल्लक्षणं तस्यादगिरणमुच्चारणं तेन तुल्यः कालो यस्याः। शैलेशो मेरूस्तस्येयं शैलेशी तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य / युगपदेककाल परितः सामस्त्येन क्षपयति वेदनीयायुर्नामगोत्रलक्षणानि कर्माणि // 57 // ततश्च-- औदारिकतैजसकार्मणानि संसारमूलकरणानि / हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् // 58 // औदारिकतैजसकामणलक्षणानि शरीराणि संसारमूलभूतानि करणानि साधकतमानि, इह देहत्यागभूमौ हित्या एकया ऋजव्या श्रेण्या वियहरहितया प्रदेशान्तराण्यस्पृशन्नेकेन समयेन समयान्तरमस्पृशन लोकान्तं सिद्धिक्षेत्रं याति साकारोपयोगोपयुक्त इति शेषः यदाह-" इह बोंदि चइत्ताणं तत्थ गंतूण सिज्झई " इति // 54 // ननूपरि गच्छन् लोकान्तादुपर्यपि कि न गच्छति ? देहत्यागभूमेरधस्तिर्यग्वा कि न गच्छति ? इत्याह-- 1 इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति / 770