________________ योग शास्त्रम् एकादेश प्रकाशः। 119ERII निरुणद्धि / सति तस्मिन् सूक्ष्मयोगस्य रोध्धुमशक्यत्वात् / न हि धावन् वेपथु वारयति / ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मक्रियमनिवति शुक्लध्यानं ध्यायन् 18 स्वात्मनैव सूक्ष्मकाययोगं निरूणद्धि // 42 // एतदेवार्यात्रयेणाह श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ॥५३॥ सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् / / तस्मिन्ननिरुद्ध सति शक्यो रोईं न सूक्ष्मतनुयोगः॥५४॥ वचनमनायोंगयुगं सूक्ष्मं निरुणद्धि सूक्ष्मात्तनुयोगात् / विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोंगम् // 55 // स्पष्टाः // 53-55 // तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोंगस्य / अस्यान्ते क्षोयन्ते त्वघातिकर्माणि चत्वारि // स्पष्टः॥ 56 // ततश्च // 769 //