________________ योगशास्रम् एकादशः प्रकाशा // 768 // समयैस्ततश्चतुर्भिनिवर्तिते लोकपूरणादस्मात् / विहितायुःसमकर्मा ध्यानी प्रतिलोममार्गेण॥५२ / ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति / षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् / सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् / अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति / समुद्घातकाले च मनोवाग्योगयोरव्यापार एव प्रयोजनाभावात् / काययोगस्यैव केवलस्य व्यापारः। तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव। द्वितोयषष्ठसप्तमेषु समयेषु पुनरोदारिकाद्वहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः / तृतीयचतुर्थपञ्चमेषु औदारिकावहिबहुतरप्रदेशव्यापारादसहायकार्मणयोग एव / यदाह-- औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः मिश्चोदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // 1 // कार्मणशरीरयोगी चतुर्थके पश्चमे तृतीये च। समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् // 2 // परित्यक्तसमुद्घातश्च कारणवशाद्योगत्रयमपि व्यापारयति, यथा--अनुत्तरसुरः पृष्टो मनोयोगं सत्यं वाऽसत्यामुषं वा प्रयुङ्क्ते / एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ / द्वयोरपि काययोगमप्यौदारिकं फलकप्रत्यपणादाविति / ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते / इह त्रिविधोऽपि योगो द्विविध:--सूक्ष्मो बादरश्च / तत्र केवलोत्पत्तेरूत्तरकालो जघन्येनान्तर्मुहर्तम, उत्कर्षेण च देशोना पूर्वकोटिः, तां विहृत्यान्तमुहर्रावशेषायुष्कः सयोगिकेवली प्रथम बादरकाययोगेन बादरौ वाङ्मनसयोगौ निरूणद्धि / ततः सूक्ष्मकाययोगेन बादरकाययोगं // 768H /