________________ योगशास्त्रम्। पकादशः प्रकाश // 767 // आयुःकर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि / तत्साम्याय तदोपक्रमेत योगी समुद्घातम् // यावत्यायुःकर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते / अथायुःस्थितेः सकाशाद्राधीयसी स्थितिवेदनीयस्य भवति तदा स्थितिघातरसघाताद्यर्थ समुद्घातं प्रयत्नविशेष करोति / यदाहयस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् / स समुद्घातं भगवानथ गच्छति तत्समीकर्तुम् // 1 // इति / समुद्घात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरोराबहिर्जीवप्रदेशानां निःसारणम् // 50 // तस्य विधिमाह| दण्डकपाटे मन्थानकं च समयत्रयेण निर्माय / तुर्ये समये लोकं निःशेषं पूरयेद्योगी // 51 // ___इह प्रथमसमय एव स्वेदेहतुल्यविष्कम्भमूर्ध्वमधश्चायत लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति / द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति / तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्यानं करोति लोकान्तप्रापिणमेव / एवं च लोकस्य प्रायो बहु पूरितं भवति / चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूरयति / ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति / लोकपुरणश्रवणाच्च परेषामात्मविभुत्ववादः समुदभूतः। तथा चार्थवादः-"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोवाहुरुत विश्वतःपात्" इत्यादि // 51 // अथ पञ्चमादिसमयेषु कर्तव्यमाह // 767 //