________________ योग शाखमा प्रकाशा 1772| सादिकमनन्तमनुपममव्यावाचं स्वभावजं सौख्यम् / प्राप्तः सकेवलज्ञानदर्शनो मोदते मुक्तः // 61 // सहादिना वर्तत इति सादिकं, ससारे कदाचिदप्यभावात् / नास्यान्तोऽस्तीत्यनन्तं, क्षयाभावात् / सादेः कथमनन्तत्वमिति चेत् घटादिप्रध्वंसे तथा दर्शनात्, घटादिप्रध्वंसो हि सादिः. मुद्गरादिव्यापारजन्यत्वात्, अनन्तश्च,क्षयाभावात्, तत्क्षये हि घटस्य पुनरुन्मज्जनप्रसङ्गः। अनुपममुपमानस्य कस्यचिदभावात् सांसारिकमखानां सर्वजीववर्तिनामतीतानामनागतानां वर्तमानानां च सिद्धसुखापेक्षयाऽनन्तभागत्वात् / नास्य व्याबाधाऽस्तीत्यव्याबाधं, शरीरमनसोराबाधाहेत्वारभावात् / स्वभावजं स्वभावादात्मस्वरूपमात्राज्जायते, न पुनः कुश्चित्कारणान्तरात्, एवंविधं सुखं प्राप्तः, केवलज्ञानदर्शनाभ्यां युक्ता मुक्तः सन् मोदते परमानन्दवान् भवति / अनेन मुखादिगुणविकलो ज्ञानदर्शनरहितश्च मुक्त इति, मतमपास्तं, यदाहुबैशेषिका:--"बुध्यादीनां नवानामात्मविशेषगुणानामत्यन्तोच्छेदो मोक्ष" इति, ये वा प्रदीपनिर्वाणकल्पमभावैकरूपं मोक्षमाहुस्तेऽपि निरस्ताः बुद्धयादि गुणोच्छेदरूपस्यात्माच्छेदरूपस्य वा मोक्षस्यास्पृहणीयत्वात्, को हि सचेतनः स्वगुणोच्छेदमात्मोच्छेदं चार्थयेत् ? तस्मादनन्तज्ञानदर्शनसुखवीर्यमयस्वरूपो मोक्षः सर्वप्रमाणसिद्धो युक्तः॥ 61 // इति परमाईत श्रीकुमारपालभूपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपनं एकादशप्रकाशविवरणम् // 11 // // 772 //