________________ योगशाखम्। // 760 // पकादशः प्रकाश वीर्यपरिणतिविशेषः काययोगः / औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः / औदारिवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः // 10 // ननु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात्केवलिनः, ध्यानं च मनःस्थैर्य, तदेतत्कथं ? इत्याह छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्झैः / निश्चलमङ्गं तद्वत्केवलिनां कीर्तितं ध्यानम् // 11 // यथा छमस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाव्यभिचाराद्ध्यानशब्दाभिधेयो भवति // 11 // ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह पूर्वाभ्यासाजीवोपयोगतः कर्मजरणहेतोर्वा / / शब्दार्थबहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् // 12 // यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाभ्रमति, तथा मनःप्रभृतिसर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति / तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो ध्यानम् / यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यान, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते / 760 //