________________ थोगशाखम् एकादेश प्रकाशः। 759 // तृतीयभेदं व्याचष्टे निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य / सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् // 8 // निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्वासनिश्वासादिका कायक्रिया यत्र तत्तथा / अप्रतिपाति अनिवर्ति / दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा-"दरदलितहरिद्राग्रन्थिगौरं शरीरम्" (इत्यादौ) // 8 // चतुर्थ भेदं व्याचष्टेकेवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य / उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् // ___ स्पष्टः // 9 // चतुर्वपि योगसङ्ख्यां निरूपयतिएकत्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् / तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु // 10 // आद्यं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रतपाठकानां भवति / अपर मेकत्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानां, योगान्तरे संक्रमाभावात् / तृतीयं सूक्ष्मक्रियमनिवर्ति तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे। चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगाणामयोगिकेवलिनां शैलेशीगतानां भवति / योगस्तु कायवाग्मनोभेदात्त्रिविधः। तत्रौदारिकवैक्रियाहारकतजसकार्मणशरीरवतो जीवस्य // 759 //