________________ योगशास्त्रम्॥ पकादशः प्रकाशा 756 // तेयविसेसेण सुहासवादओणुतरामरमुहं च / दोण्हं मुक्काण फलं परिनिव्वाणं परिल्लाणं // 2 // 1 // शुक्लध्यानस्याधिकारिणं निरूपयतिइदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् / स्थिरतां न याति चित्तं कथमपि यत्स्वल्पसत्वानाम्। ___ आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा / सकलश्रुतात् पूर्व प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः / इदं च प्रायिकं, माषतुषमरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् / आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः // 2 // इदमेव भावयति धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनोविषयैः। शुक्लध्यान तस्मान्नास्त्यधिकारोऽल्पसाराणाम्' // 3 // स्पष्टम् / यदाहछिमें भिन्ने हते दग्धे देहे स्वमपि दुरगम् / प्रपश्यन् वर्षवातादिदुःखैरपि न कम्पते // 1 // न पश्यति तदा किञ्चिन श्रणोति न जिघ्रति / स्पष्ट किञ्चिन्न जानाति लेप्यनिवृत्तमूर्तिवत् // 2 // इति // 3 // ननु यधादिमसंहननानां शुक्लध्यानेऽधिकारस्तीदानी सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोडवसरः ? इत्याह तेजोविशेषेण मुखास्वादतोऽनुत्तरामरसुखं च / द्वयोः शुक्लयोः फलं परिनिर्वाणं परयोः // 2 //