________________ पोगशाखम्। पकादश // 757 // अनवच्छित्याम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः / दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् // 4 // यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थ तदुपदेश इत्यर्थः // 4 // शुक्लध्यानस्य भेदानाहज्ञेयं नानात्वश्रुतविचारमक्यश्रुताविचारं च / सूक्ष्मक्रियमुत्पन्नक्रियमिति भेदैश्चतुर्धा तत् // 5 // नानात्वं पृथक्त्वं श्रुतं वितर्कः विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्क सविचारं प्रथमम् / ऐक्यमपृथक्त्वं एकत्ववितर्कमविचारं च द्वितीयम् / सूक्ष्मक्रियमप्रतिपातीति तृतीयम् उत्सनक्रियमनिवर्तीति चतुर्थम् / एवं चतुर्विध शुक्लध्यानम् // 5 // अथाद्यभेदं ब्याचष्टेएका पर्ययाणां विविधनयानुसरणं श्रुताद्व्ये / अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तमाद्यं तत् // एकस्मिन् परमाण्वादौ द्रव्ये पर्यायाणामुत्पादस्थितिभङ्गमूर्तत्वामूर्तत्वादीनां विविधनौव्याथिकपर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनं, श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा, तदाधं शुक्लमिति संबन्धः / कथंभूतं ? अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तं, अर्थों द्रव्यं तस्माद्वयञ्जने शब्दे शब्दाच्चार्थे संक्रमणं, योगायोगान्तरसंक्रमणं तु मनोयोगात् काययोगे वा वाग्योगे वा संक्रान्तिः, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा संक्रमणं, तेन युक्तं / यदाहुः 757 //