________________ दशमः प्रकाशः। योगशास्त्रम्। // 749 // 16 स्पष्टः // 3 // तात्पर्यमाह-- सोऽयं समरसीभावस्तदेकीकरणं मतम् / आत्मा यदपृथक्त्वेन लीयते परमात्मनि // 4 // ___स्पष्टः // 4 // ऐदम्पर्यमुपदिशति-- अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्ष्मं विचिन्तयेत्। सालम्बाच्च निरालम्बं तत्त्ववित्तत्वमंजसा / 5 / स्पष्टः / / 5 / / पिण्डस्थादिरूपं चतुर्विधं ध्येयमुपसंहरति# एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः / साक्षात्कृतजगत्तत्वं विधत्त शुद्धिमात्मनः // 6 // | स्पष्टः // 6 // पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य चातुर्विध्यमाह-- | आज्ञापायविपाकानां संस्थानस्य च चिन्तनात् / इत्थं वा ध्येयभेदेन धम्यं ध्यानं चतुर्विधम् // 7 // ___ ध्येयभेदाच्चातुर्विध्यं ध्यानस्य // 7 // अथाज्ञाध्यानमाहआज्ञां यत्र पुरस्कृत्य सवज्ञानामबाधिताम् / तत्त्वतश्चिन्तयेदास्तदाज्ञाध्यानमुच्यते // 6 // आज्ञाऽऽसवचनं प्रवचनमिति यावत् / अबाधितां प्रमाणान्तरैः परस्परविरोधेन च तत्त्वत इति परमार्थवृत्त्या, अर्थान् पदार्थान् जीवादीन चिन्तयेत् // 8 // आज्ञाया अबाधितत्त्वं भावयति-- 749 //