________________ योगशास्त्रम् दशमप्रकाशा 1748 // सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् / संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः स्पष्टः // 16 // इति परमाईश्रीकुमारपालभूपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषद्नाम्नि संजातपट्टबन्धे श्रोयोगशास्त्रे स्वोपज्ञं नवमप्रकाशविवरणम् // 9 // - रे / अथ दशमः प्रकाशः। 10 ओं अहं / अथ रूपातीतं ध्येयमाहअमर्तस्य चिदानन्दरूपस्य परमात्मनः। निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् // 1 // __स्पष्टः // 1 // एवं चइत्यजसं स्मरन् योगी तत्स्वरूपावलम्बनः। तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् // 2 // ___ स्पष्टः // 2 // अनन्यशरणीभूय स तस्मिन् लीयते तथा। ध्यातृभ्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् // 3 // Hous