________________
योगशास्त्रम् ॥७३२॥
सप्तमः प्रकाशा
सप्तधातुविनाभृतं पूर्णेन्दुविशदद्युतिम्। सर्वज्ञकल्पमात्मानं शुद्धिबुद्धिः स्मरेत्ततः ॥२३॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विश्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥२४॥ : | स्वाङ्गगर्भनिराकारं संस्मरेदिति तत्रभूः । साभ्यासइति पिण्डस्थे योगी शिवसुखं भजेत् ॥२५॥
स्पष्टाः ॥२३-२५॥ पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकैराह8अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः। प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥२६॥ 3 शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः। नेस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः२७ Nil दुष्टाः करटिनः सिंहोः शरभोः पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः॥२०॥
इति परमाईतश्रीकुमारपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषद्नाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपझं सप्तमप्रकाशविवरणम् ॥७॥
. 'नराकारं' इति प्रत्यन्तरम् ॥
॥७३२॥