________________
योगशास्त्रम् ।
॥७३१ ॥
CEREC FOR CROCH
स्फुलिंगसंततिं ध्यायेज्ज्वालामालामनन्तरम् । ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥१५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥१६॥ ततो देहाद्बहिर्ध्यायेत् त्र्यस्त्रं वह्निपुरं ज्वलत् । लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम् ॥ १७॥ देहं पद्मं च मन्त्राचिरन्तर्वह्निपुरं बहिः । कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥ १८ ॥ स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रवर्तिबीजं अर्ह इति ॥ १३-१८॥ अथ वायवीं धारणां श्लोकद्वयेनाह
ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् ॥१९॥ तच्च भस्मरजस्तेन शीघ्रमुध्धूय वायुना । दृढभ्यासः प्रशान्ति तमानयेदिति मारुती ॥२०॥ स्पष्टौ ॥ १९-२० ॥ अथ वारुणीं धारणां श्लोकद्वयेनाह-
स्मरेद्वर्षत्सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वारुणाङ्कितम् ॥२१॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः । तद्रजः कायसंभूतं क्षालयेदिति वारुणी ॥२२॥ स्पष्टौ ॥२१ - २२॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह --
सप्तमः प्रकाशः ।
॥७३१॥