________________
योग शाखम्।
सप्तमः प्रकाशः।
॥७३०॥
पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः ॥८॥
पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥८॥
तद्धारणाभेदेनाहपार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धोरणाः॥९॥ ___स्पष्टः ॥९॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह-- | तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहसपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत्॥१०॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥११॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥१२॥
तिर्यग्लोकसम तिर्यग्लोकप्रमाणं यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥
अथाग्नेयीं धारणां षइभिः श्लोकैराह-- विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् ॥१३॥ रेफबिन्दुकलाक्रान्तं महामन्त्रो यदक्षरम् । तस्य रेफोद्विनिर्यान्तीं शनै—मशिखां स्मरेत् ॥१४॥ ||
॥७३०॥