________________
योगशाखम्
सप्तमः। प्रकाश
॥७२॥
अथ सप्तमः प्रकाशः। ओं अहं ॥ अथ ध्यानविधित्सोः क्रममाहध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् ।
सिध्यन्ति न हि सामग्री विना कार्याणि कर्हिचित् ॥१॥ स्पष्टः ॥२॥ अथ ध्यातारं पइमिः श्लोकैराहअमुञ्चन् प्राणनाशेऽपि संयमैकधूरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ॥२॥ उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि योगामृतरसायनम् ॥३॥ रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्निर्लेपः सर्वकर्मसु ॥४॥ विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगहृदनिर्ममः सर्वत्र समतां श्रयन् ॥५॥ नरेन्द्रे वा दरिद्रे वा तुल्यकल्याणकामनः । अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः ॥६॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥७॥
स्पष्टाः ॥२-७॥ अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाह
॥७२९॥