________________
योगशास्त्रम्।
प्रकाशन
I७२८॥
इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः। धर्मध्यानकृते तस्मान्मनःकुर्वीत निश्चलम् ॥६॥
इन्द्रियैः सह मनो बाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ-- "प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः" । मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः ॥६॥
धारणास्थानान्येवम्-- नाभीहृदयनासोग्रभालभूतालुदृष्टयः मुख कर्णौ शिरश्चेति ध्यानस्थानोन्यकीर्तयन् ॥७॥
ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥७॥
धारणायाः फलमाह-- एषामेकत्र कुत्रापि स्थाने स्थापयतो मनः। उत्पद्यन्ते स्वसं वित्तेर्बहवः प्रत्ययाः किल ॥८॥
प्रत्ययाः वक्ष्यमाणाः । शेषं स्पष्टम् ॥८॥ इति परमाईतश्रीकुमारपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं षष्ठप्रकाशविवरणम् ॥६॥
॥७२८॥