SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् अष्टम प्रकाश ॥७३३॥ । अथाष्टमः प्रकाशः।८ ओं अहं ॥ अथ पदस्थस्य ध्येयस्य लक्षणमाह" यत्पदानि पवित्राणि समालम्ब्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः ॥१॥ ___स्पष्टः ॥१॥ विशेषं त्रिभिः श्लोकराह तत्र षोडशपत्राढये नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥२॥ | चतुर्विशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्रा चिन्तयेत् पञ्चविंशतिम् ॥३॥ | वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मरन्मातृकामेवं स्याच्छ्रतज्ञानपारगः ॥४॥ __स्पष्टाः ॥२-४॥ अस्य फलमाहध्यायतोऽनादिसंसिद्धान वर्णानेतान यथाविधि । नष्टादिविषये ज्ञानं ध्यातरुत्पद्यते क्षणात् ॥५॥ स्पष्टः । उक्तं च-"जापाज्जयेत्क्षयमरोचकमग्निमान्ध, कुष्ठोदरास्मकसनश्वसनादिरोगान् । प्राप्नोति चाप्रतिमवाग्महतीं महद्भ्यः , पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥११॥” इति ॥५॥ प्रकारान्तरेण पदमयीं देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति ७३३५
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy