________________
योगशास्त्रम् ।
॥७२५ ।।
द्वे एव घटिके सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ २६१॥
स्पष्टः ॥ २६१॥ तथा-
षट्शतोभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमम् । २६२। स्पष्टः ॥२६२॥ वायुसंक्रमावे दिनस्तत्त्वनिर्णयेऽनधिकारमाह-
मुग्धः समीरस्य संक्रान्तिमपि वेत्ति न । तत्त्वनिणयावार्ता स कथं कर्तुं प्रवर्तते ॥ २६३ ॥ स्पष्टः || २६३ ॥ इदानीं वेधविधिं श्लोकाष्टकेनाह-
पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्वस्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् ॥ २६४॥ आदिक्षिप्य रेचकेनाथ कर्षेद्वायुं हृदम्बुजात् । ऊर्ध्वस्रोतःपथग्रन्थि भित्त्वा ब्रह्मपुरं नयेत् ॥२६५॥ रानिष्क्रमय्य योगी कृतकुतूहलः । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः ॥ २६६ ॥ मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्ष (क्ष्य) तया वेधं सदा कुर्यादतन्द्रितः ॥ २६७॥ दृढाभ्यासस्ततः कुर्याद्वेधं वरुणवायुना । कर्पूरागुरुकुष्ठादिगन्धद्रव्येषु सर्वतः ॥ २६८॥ एतेषु लब्धलक्षो(क्ष्योऽथ वायुसंयोजने पटुः । पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥ २६९॥ पतङ्गभृङ्गकायेषु जातभ्यासो मृगेष्वपि । अनन्यमनसो धीरः संचरेद्विजितेन्द्रियः ॥२७०॥
पञ्चमः प्रकाशः।
१७२५॥