________________
योगशास्त्रम्
॥७२६॥
नराश्वकरिकायेषु प्रविशन्निःसरन्निति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१॥
स्पष्टाः ॥२६४ - २७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाह-
एवं परोसुदेहेषु प्रविशेद्वामनासयो । जीवद्देहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥
पापशङ्कयेति जीवद्देहप्रवेशे हि परस्य प्राणप्रहाणं स्यात्, तच्च पापं शस्त्रघातादिवनोपदेष्टव्यं । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि-
ब्रह्मरन्ध्रेण निर्गत्य प्रविश्यापानवर्त्मना । श्रित्वा नाभ्यम्बुजं यायात् हृदम्भोजं सुषुम्णया ॥१॥
तत्र तत्प्राणसंचारं निरुन्ध्यानिजवायुना । यावद्देहात्ततो देही गतचेष्टो विनिष्पतेत् ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ||३||
दिना वा दिनं चेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ||४|| २७२ || परपुरप्रवेशफलमाह-
क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः॥ २७३॥
स्पष्टः ॥ २७३॥
इति परमातुश्री कुमारपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिषद्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं पञ्चमप्रकाशविवरणम् ||५||
पश्चमः प्रकाशः ।
॥७२६ ॥