________________
PO
योगशास्त्रम्
प्रकाशः।
॥७२४॥
अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्टौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥२५३॥ लाभालाभौ सुखं दुखं जीवितं मरणं तथा । विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः ॥२५४॥
निरुरुत्सेत् निरोध्धुमिच्छेत् , तदङ्ग निषेधनाडयङ्ग पीडयेत् शयनादिना । शेषं स्पष्टम् ॥२५२-२५४॥
नाडिशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव स्तौति-- अखिलं वायुजन्मेदं सामर्थ्यं तस्य जायते । कतु नाडीविशुद्धिं यः सम्यग जानात्यमूढधीः ॥२५५॥ ___स्पष्टः ॥२५५॥ इदानीं नाडीशुद्धिं श्लोकचतुष्टयेनाह-- नाभ्यब्जकर्णिकारूढं कलाविन्दुपवित्रितम् । रेफोक्रान्तं स्फुरद्भासं हकारं परिचिन्तयेत् ।२५६॥ तं ततश्च तडिद्वेगं स्फुलिङ्गार्चिशताञ्चितम् । रेचयेत्सूर्यमागेण प्रापयेच्च नभस्तलम् ॥२५७॥
अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः । चन्द्राभं चन्द्रमार्गेण नाभिपद्मे निवेशयेत ॥२५॥ 8| निष्क्रमं च प्रवेशं च यथामार्गमनारतम् । कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ॥२५९॥
___ स्पष्टाः ॥२५६-२५९॥ नाडीसंचारज्ञाने फलमाह-- नाडीशुद्धाविति प्राज्ञः संपन्नाभ्यासकौशलः। स्वेच्छया घटयेद्वायुं पुटयोस्तत्क्षणादपि ॥२६०॥
स्पष्टः ॥२६०॥ वामदक्षिणनाडयोरधिवसतः पवनस्य कालमानमाह--
॥७२४॥