________________
योग
शाखम्
पश्चम प्रकाशः।
॥७२३॥
वहन्तीं नासिकां वामां दक्षिणां वाऽभिसंस्थितः। पृच्छेद्यदि तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ सुषुम्णावाहभागे द्वौ शिशूरिक्ते नपुंशकम् । संक्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम्॥२४६॥
स्पष्टौ ॥२४५-२४६ मतान्तरमाह--- चन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम् । प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥२४७॥
स्पष्टः ॥२४७॥ पवननिश्चयोपायमाहA यदो न ज्ञायते सम्यक् पवनः संचरन्नपि । पीतश्वतारुणश्योमेनिश्चेतव्यः स बिन्दुभिः ॥२४८॥
स्पष्टाः ॥२४८॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाहअङ्गुष्ठाभ्यां श्रुती मध्याङलीभ्यां नोसिकापुटे । अन्त्योपोन्त्योङलीभिश्च पिधाय वदनाम्बुजम् ॥ | कोणावक्ष्णोनिपीड्याद्याशुलीभ्यां श्वासरोधतः। यथावणं निरीक्षेत विन्दुमव्यग्रमानसः॥२५०॥ ___स्पष्टौ ॥२४९-२५०॥ बिन्दुज्ञानात् पवननिश्चयमाहपीतेन बिन्दुना भौमं सितेन वरुणं पुनः। कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् ॥२५॥
स्पष्टः ॥२५१॥ अनभिमतां नाडी निषेधुमुपायमाह-- निरुरुत्सेद्वहन्तीं यां वामां वा दक्षिणामथ । तदङग पीडयेत्सद्यो यथा नाडीतरा वहेत् ॥२५२॥
॥७२३॥