________________
योगशाखम्।
पञ्चमः प्रकाशः।
॥७२२॥
स्पष्टः ॥२३८॥ तथा-- | महेन्द्रवरुणौ शस्तौ गर्भप्रश्ने सुतप्रदौ । समीरदहनौ स्त्रीदौ शून्यं गर्भस्य नोशकम् ॥२३९॥
___ स्पष्टः ॥२३९॥ तथा--- गृहे राजकुलादौ च प्रवेशे निर्गमेऽथवा। पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥२४॥
पूर्ण यदङ्ग वाम दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः, शेषं स्पष्टम् ॥२४०॥ तथागुरुबन्धुनृपामात्या अन्येऽपीप्सितदायि नः पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता॥२४१॥
स्पष्टः ॥२४१॥ तथाआसने शयने वोऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम्॥२४२॥
स्पष्टः ॥२४२॥ तथा--- | अरिचौराधमांद्या अन्येऽप्युत्पातविग्रहाः। कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिमिः ॥२४३॥
__स्पष्टः ॥२४३॥ तथा--- प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्वलिष्ठेरपि हन्यते ॥२४॥
स्पष्टः ॥२४४॥तथा
॥७२२॥