SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥७२१ ॥ ज्ञान बुद्धानि सम्यक् पुष्पं हस्तात्प्रपातयेत् । मृतजीवितविज्ञाने ततः कुर्वीत निश्चयम् ॥ २३२ ॥ स्पष्टः || २३२ || निश्चयमेवाह त्वरितो वरुणे लाभश्वरेण तु पुरन्दरे । जायते पवने स्वल्पसिद्धोऽप्यग्नौ विनश्यति ॥२३३॥ स्पष्टः || २३३|| तथा---- आयाति वरुणे यातः तत्रैवास्ते सुखं क्षितौ । प्रयाति पवनेऽन्यत्र मृत्त इत्यनले वदेत् ॥२३४॥ स्पष्टः || २३४|| तथा---- दहने युद्धपृच्छायां युद्धभङ्गश्च दारुणः । मृत्युः सैन्यविनाशो वा पवने जायते पुनः ॥ २३५॥ स्पष्टः ||२३५|| तथा महेन्द्रे विजयो युद्धे वरुणे वाञ्छिताधिकः । रिपुभङ्गेन सन्धिर्वा स्वसिद्धिपरिसूचकः ॥ २३६॥ स्पष्टः || २३६|| तथा---- भौमे वर्षति पर्जन्यो वरुणे तु मनोमतम् । पवने दुर्दिनाभ्भोदौ वनौ वृष्टिः कियत्यपि ॥ २३७॥ स्पष्टः ||२३७|| तथा--- वरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुरन्दरे । मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने ॥ २३८॥ पश्ञ्चमः प्रकाशः । ॥७२१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy