________________
योग
शास्त्रम्
॥२६॥
लयाश्च । येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामित्र बहुभ्यो दीयमानमपि न atra asaणमहानसाः। अक्षीणमहालयर्द्धिप्राप्ताश्च यत्र परिमित भूप्रदेशेऽवतिष्ठन्ते तत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परवाधारहितास्तीर्थकरपर्षदीय मुखमासते । इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महर्द्धयो दर्शिताः । सर्वेन्द्रियाणां विषयान् गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेन सम्भिन्नश्रोतोलब्धिस्तु सा मता || १ ||८||
तथा
चोरणाशीविषावधिमनःपर्यायसम्पदः । योगकल्पद्रुमस्यता विकासिकुसुमश्रियः॥ ९ ॥ अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः । तत्सम्पन्नलब्धिरित्यर्थः । आशीविषलब्धिनिग्रहानुग्रह सामर्थ्यम् अवधिज्ञानलब्धिर्मूर्त्तद्रव्यविषयं ज्ञानम् । मनः पर्य्यायज्ञानलब्धिर्मनोद्रव्यप्रत्यक्षीकरणशक्तिः । एता लब्धयो योग कल्पवृक्षस्य कुसुमभूताः । फलं तु केवलज्ञानं मोक्षो वा । भरतमरुदेव्युदाहरणाभ्यां वक्ष्यते ।
तथाहि
द्विविधाश्वारणा ज्ञेया जङ्घविद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं यान्त्येकोत्पातलीलया ॥१॥ वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति द्वितीयेन यतो गताः ||२|| ते चोर्ध्वगत्यामेकेन समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं मेरुशैलशिरः स्थितम् ||३|| ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन प्रथमोत्पात भूमिकाम् ||४|| विद्याचारणास्तु गच्छन्त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन द्वीपं नन्दीश्वरम् ||५|| तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः । यान्त्यायान्त्यूर्ध्वमार्गेऽपि तिर्य्यग्यानक्रमेण ते ||६||
योग
महात्म्यम्
॥२६||