________________
योगशास्त्रम्
योगमाहात्म्यम्
॥२५॥
भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोप्ठेऽवस्थानं तथा परोपदेशादवधारितानां श्रीतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात्कोष्टबुद्धयः । पदानुसारिणोऽनुश्रोतःपदानुसारिणः प्रतिश्रोतः पदानुसारिण उभयपदानुसारिणश्च । तत्रादिपदस्यार्थ ग्रन्थं च परत उपश्रुत्य आअन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयोऽनुश्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थ ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादअर्थग्रन्थविचारपटवः प्रतिश्रोतः पदानुसारिबुद्धयः। मध्यपदस्यार्थ ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छन्नपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बीजबुद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता पदानुसारी त्वेकपदावगमा त्पदान्तराणामवगन्तेति विशेषः । तथा मनोवाकायबलिनः । तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तू त्यान्तर्मुहूर्तेन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहर्तेन सकलश्रुतवस्तूच्चारणसमर्था वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां वाचमुच्चैरुच्चारयन्तो ऽविरहितवाक्क्रमाहीनकण्ठा वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात्प्रतिमयावतिष्ठमानाः श्रमक्लमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा क्षीरमधुसर्पिरमृताखविणो येषां पात्रपतितं कदनमपि क्षीरमधुसप्पिरमृतरसवीय विपाकं जायते वचनं वा शरीर मानसदुःखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति ते क्षीरानविणो मध्वाखविणः सपिराखविणोऽमृतास्त्रविणश्च । केचिदक्षीणर्दियुक्तास्ते च द्विविधा अक्षीणमहानसा अक्षीणमहा