________________
योग
शास्त्रम् ઘરમાા
मेघमुक्तमपि वारि यदसङ्गमात्रान्नदीवाप्यादिगतमपि सर्व्वरोगहरं भवति । तथा विषमूर्च्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषा भवन्ति । विषसंपृक्तामप्यन्नं यन्मुखप्रविष्टमविषं भवति । महाविषव्याधिवाधिता अपि यद्वचः श्रवणमात्राद्यदर्शनाच्च वीतविकारा भवन्ति । एष सर्वोऽपि सर्वौषधिप्रकारः । एते कफादयो महर्द्धिरूपाः । अथवा महर्द्धयो विभिन्ना एव । वैक्रियलब्धयोऽनेकधा अणुत्व - महत्त्व - लघुत्व - गुरुत्व - प्राप्ति - प्राकाम्य - ईशित्ववशित्व - अप्रतिघातित्व-अन्तर्द्धान कामरूपित्वादिभेदात् ।
अणुत्वमणुशरीरविकरणम् । येन विसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महत्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता। प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्रप्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सुभूमा विव प्रविशतो गमनशक्तिः तथा अप्स्विव भूमावुन्मज्जननिमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकर त्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्व्वजीववशीकरणलब्धिः। अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्ग गमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः । अथवा प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूतसाधारण महाप्रज्ञर्द्धिलाभा अनधीतद्वादशाङ्गचतुर्द्दशपूर्वा अपि सन्तो यमर्थ चतुद्देशपूर्वी निरूपयति तस्मिन विचारकृच्छ्रेप्यवर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । अन्येऽधीतदशपूर्व्वा रोहिणीप्रज्ञप्त्यादिमहाविद्यादिभिरङ्गुष्ठप्रसेनिकाभिरल्पविद्यादिभिश्चोपतानां भूयसीनामृद्धीनां अवशगा विद्यावेगधारणात् विद्याधरश्रमणाः । केचिद्बीजकोष्ठपदानुसारिबुद्धिविशेषर्द्धियुक्ताः। सुकृष्टवसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारण विशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं
योगमाहात्म्यम्
॥२४॥