________________
योग
शास्त्रम
રા
शरीरकः । तदहाय निगृहणीवो रोगानुपचितांस्तव ॥ ५२ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोचिकित्सकौ । द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३॥ क्रोधमानमाया लोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहखानुगामिनोऽनन्तदुःखदाः ||५४|| तांश्चिकित्सितुमीशौ चेद्युवां तर्हि चिकित्सतम् । अथो चिकित्स द्रव्यरोगांस्तद्वत पश्यतम् ||५५|| ततोऽङ्गुलीं गलत्पामां शीणी स्वकफविप्रुषा । लिप्तां शुल्वं रसेनेव द्राक् सुवर्णी चकार सः॥५६॥ ततस्तामङ्गुलीं स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य पेततुः प्रोचतुश्च तौ ॥५७॥ निरुरूपयिषू रूपं यौ त्वामायातपूर्विणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥५८॥ सिद्ध लब्धिरपि व्याधिबाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ||५९ || आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥६०॥ एतन्निदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता ग्रन्थगौरवभीरुभिः ॥ ६१ ॥ योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय कुमुदामोदशालि च|| ६२|| मलः किल समाम्नातो द्विविधः सर्व्वदेहिनाम् । कर्णनेत्रादिजन्मैको द्वितीयस्तु वपुर्भवः ||६३|| योगिनां योगसम्पत्तिमाहात्म्याद्विविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्व्व रोगिणाम् ॥६४॥ योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ||६५|| नखाः केशारदाश्चान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सव्र्व्वेषिधिः स्मृता ॥ ६६ ॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्त्तिनाम् । देहास्थिसकलस्तोमः सर्व्वस्वर्गेषु पूज्यते ॥ ६७॥
किञ्च --
SEESOKEEK REESHO FORESTOESEX
योग
माहात्म्यम्
॥२३॥