________________
योगशास्त्रम्
योगमाहात्म्यम्
રરા
तथापि हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ॥३४॥ रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम् महासरोवरस्येव वारिसेवालवल्लरी॥३५॥ शरीरं श्लथते नाशा रूपं पाति न पापधीः । जरा स्फुरति न ज्ञानं धिग स्वरूपं शरीरिणाम् ॥३६॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ॥३७॥ अद्यश्वीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिज्जरासारं तप एव महत्फलम् ॥३८॥ इति सजातवैराग्यभावनः पृथिवीपतिः । प्रव्रज्यां स्वयमादित्मुः। तं राज्ये न्यवीविशत् ॥३९॥ गत्वोद्याने सविनयं विनयन्धरसूरितः। सर्वसावधविरतिप्रधानं सोऽग्रहीत्तपः॥४०॥महाव्रतधरस्यास्य दधानस्योत्तरान गुणान् । ग्रामादग्राम बिहरतः समतैकाग्रचेतसः ॥४१॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात्करिकुलं महायूथपतेरिख ॥४२॥ (युग्म) निष्कषायमुदासीनं निर्मम निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथश्चित्तन्न्यवर्त्तत ॥४३॥ यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे सम्पूर्णैर्दोहदैरिव ॥४४॥ करुशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः ॥४५॥ दुःसहान् सहमानस्य तस्याशेषपरीपहान् । उपायनिरपेक्षस्य समपद्यन्त लब्धयः ॥४६॥ अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥४७ । चक्रवर्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलबत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥४८॥ तपोमहात्म्यलब्धासु सास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति ॥४९॥ अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः॥५०॥ ऊचतुश्च महाभाग किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सावो विश्व स्वैरेव भेषजैः ॥५१॥ यदि त्वमनुजानासि रोगग्रस्त
॥२२॥