________________
योगशास्त्रम्
योग
माहात्म्यम्
॥२१॥
द्विजसत्तमौ । इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः ॥१६॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भुवतो रूपं नरशार्दूल गीयते॥१७॥ दूरतोऽपि तदाकर्ण्य तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ॥१८॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतत्सविशेष निरीक्ष्यते ॥१६॥ ऊचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥२०॥ इतो भूत्वा प्रतीक्षेयां क्षणमात्रे द्विजोत्तमौ । यावनिवर्त्यतेऽस्माभिरेष मज्जनकक्षणः ॥२१॥ विचित्ररचिताकल्पं भूरिभूषणभृषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥२२॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बर रत्नमिवाम्बरम् ॥२३॥ अनुज्ञातौ ततो विप्रौ पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं क विषण्णौ दध्यतुश्च तौ ॥२४॥ क तद्रूपं क सा कान्तिः क तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥२५॥ नृपः प्रोवाच तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनाननौ ॥२६॥ ततस्तावृचतुरिदं सुधामधुरया गिरा । महाभाग मुरावावां सौधर्मस्वर्गवासिनौ ॥२७॥ मध्ये सुरसभं शक्रश्चक्रे त्वपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मत्येमागताविह ॥२८॥ शक्रेण वर्णितं यादृक् तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीवन्यादृशमजायत ॥२९॥ अधुना व्याधिभिरयं कान्तिस स्वतस्करैः। देहः समन्तादाक्रान्तो निः श्वारैरिव दर्पणः ॥३०॥ यथार्थमभिधायेति द्वाक्तिरोहितयोस्तयोः। विच्छाय स्वं नृपोऽपश्यद्धिमनस्तमिव इमम ॥३१॥ अचिन्तयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूर्छा तुच्छबुद्धयः ॥३२॥ शरीरमन्तरुत्पन्नैयाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु दारुकीटगणैरिव ॥३३॥ बहिः कथञ्चिद्यद्यतत्परोच्येत (१) ख. ग. ताहगेव पुरेक्षितम्
॥२२॥