________________
योग
योगमहात्म्यम्
शास्त्रम् ૨૦
योगप्रभावान्महड़यो भवन्ति । अथवा महदयो विभिन्ना एवाणुत्वादयः तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्वविपर्यस्तेषां लब्धिर्योगस्येदं योगं ताण्डवडम्बरं रदर्शितम् ।
तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव जायन्ते सर्वरुक्छिदः ॥१॥ सनत्कुमारो हि पुरा चतुर्थश्चक्रवर्त्यभूत् । षट्खण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥२॥ कदाचिच्च सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥३॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यपं न तदन्यत्र देवेषु मनुजेषु वा ॥४॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥५।। ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रसादद्वारि नृपतेस्तस्थतुर्दाःस्थसन्निधौ ।।। आसीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन ॥७॥ द्वारस्थौ द्वारपालेन द्विजाती तौ निवेदितौ। न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत ॥८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ । धूनयामासतुर्मालि चिन्तयासतुश्च तौ ॥९॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः। नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥१०॥ दन्तच्छदौ पराभूतपकविम्बीफलच्छवी । निरस्तशुक्तिको कर्णी कण्ठोऽयं पाञ्चजन्यजित ॥११॥ करिराजकराकारतिस्कारकरौ भुजौ । स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरः स्थलम् ॥१२॥ मध्यभागो मृगारातिकिशोरोदरसोदरः। किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः ॥१३॥ अहो कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्ग न जानीमो ज्योत्स्नयोडुप्रभामिव ॥१४॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा। मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥१५॥ किं निमित्तमिहायातौ भवन्तौ (१) विलसितम्
/૨૦ણી