________________
योगशास्त्रम्
योग
महात्म्यम्
॥१९॥
सर्वा विपद आध्यात्मिक-आधिभौतिक-आधिदैविकलक्षणाः ताश्चातिविततत्वाद्वल्लीरूपास्तासां वितानः समूहस्तत्र तीक्ष्णः परशुर्योग-इत्यनर्थपरिहारो योगस्य फलम्। उत्तरार्द्धनार्थप्राप्तिर्मोक्षलक्ष्म्याःपरमपुरूषार्थरुपाया मूलमन्त्रतन्त्रपरिहारेण कार्मणं संवननं योगः। कार्मणं हि मूलमन्त्रतन्त्रैर्विधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरणहेतुरिति॥५॥ कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदः शक्यक्रिय इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद्घनघना घनाघनघटा इव ॥६॥
बहून्यपि पापानि योगात्प्रलयमुपयान्ति प्रचण्डवातोध्धूता अतिघना मेघघटा इव ॥६॥ स्यादेतदेकजन्मोपार्जितं पापं योगःक्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निर्मूलनं योगादसम्भावनीयमित्याहक्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥७॥
यथा चिरकालमीलितान्यपीन्धनानि क्षणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात्करोति । एवं योगः क्षणमागेणैव चिरसश्चितपापसंक्षयक्षमो भवतीति ॥७॥
योगस्य फलान्तरमाहकफविण्मलामर्शसषिधिमहर्द्धयः। सम्भिन्न श्रोतोलब्धिश्च यौगं ताण्डवडम्बरम् ॥८॥
महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफः श्लेष्मा विप्रडुच्चारः पुरीषमिति यावत् । मलः कर्णदन्तनासिकानयनजिद्दोद्भवः शरीरसम्भवश्च । आमर्शी हस्तादिना स्पर्शः सव्वें विण्मूत्रकेशनखादय उक्ता अनुक्ताश्च औषधयो (१) पिकृशः प्रत्यन्तरे